Thursday 27 August 2020

परापूजा स्तोत्र

 

श्रीमद्‍ शंकराचार्य विरचित परापूजा स्तोत्र-

 

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।

स्थितेऽव्दितीयभावेऽस्मिन् कथं पूजा विधीयते ॥१॥

 

(स्थिते अव्दितीयभावे अस्मिन् कथं पूजा विधीयते)

 

सच्चिदानंद जे आहे एकमेवाव्दीतीय जे

निर्विकल्प ‘असणे त्याला कोणता पूजाविधी?

 

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।

स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्य आचमनं कुत: ॥२॥

 

(पूर्णस्य आवाहनं कुत्र सर्वाधारस्य चासनम् ।

स्वच्छस्य पाद्यम् अर्घ्यं च शुद्धस्य आचमनं कुत:)

 

पूर्णास आवाहन का, सर्वाधारास आसन?

शुद्ध, निर्मळ त्या अर्घ्य, आचमन कशास्तव?

 

निर्मलस्य कुत: स्नानं वस्त्रं विश्वोदरस्य च ।

अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम ॥३॥

 

(अगोत्रस्य तु अवर्णस्य कुत: तस्य उपवीतकम्)

 

निर्मलाला कसे स्नान वस्त्र विश्वात्मका कसे?

गोत्र नाही वर्ण नाही त्यास यज्ञोपवीत का?

 

निर्लेपस्य कुतो गन्ध: पुष्पं निर्वासनस्य च ।

निर्विशेषस्य का भूषा कोऽलंकारो निराकृते: ॥४॥

 

(निर्विशेषस्य का भूषा कः अलंकारः निराकृते:)

 

गुणातीतास पूजाया गंध, पुष्पे कशास्तव

निराकार जो आहे कोणती त्यास भूषणे

 

निरन्जनस्य किं धूपैर्दीर्पैर्वा सर्वसाक्षिण: ।

निजानन्दैक तृप्तस्य नैवेद्यं किं भवेदिह ॥५॥

 

(निरन्जनस्य किं धूपैर् दीपैर् वा सर्वसाक्षिण: ।

निजानन्दैक तृप्तस्य नैवेद्यं किं भवेद्‍ इह ॥५॥)

 

सर्वसाक्षी, निरंजन तो धूपदीप कशास त्या

निजानंदी तृप्त आहे, त्याला नैवेद्य काय तो?

 

विश्वानन्दयितुस्तस्य किं ताम्बूलं प्रकल्प्यते ।

स्वयम्प्रकाशचिद्रूपो योऽसावर्कादिभासक: ॥६॥

 

(विश्वानन्द यितुः तस्य किं ताम्बूलं प्रकल्प्यते ।

स्वयंप्रकाश चिद्रूपः यः असौ अर्कादिभासकः)

अर्क = सूर्य, सूर्याला प्रकाश देणारा)

 

विश्वानंदात जो मग्न कशाला त्यास तांबुल?

स्वप्रकाशी चित्तरूपी आरती त्यास काय ती?

 

प्रदक्षिणा ह्यनन्तस्य ह्यव्दयस्य कुतो नति: ।

वेदवाक्यैर,वेद्यस्य कुत: स्तोत्रं विधीयते ॥७॥

 

(प्रदक्षिणाहि अनन्तस्य हि अव्दयस्य कुतः नति: ।

वेदवाक्यैर् अवेद्यस्य कुत: स्तोत्रं विधीयते ॥७॥

नतिः = नमस्कार)

 

प्रदक्षिणा अनंताला, अव्दैता वंदणे कसे?

वेदवाक्ये स्वयंप्रज्ञ कोणते स्तोत्र त्यास्तव?

 

स्वयम्प्रकाशमानस्य कुतो नीराजनं विभो: ।

अन्तर्बहिश्च पूर्णस्य कथमुद्धासनं भवेत ॥८॥

 

(अन्तर्बहिश्च पूर्णस्य कथम् उद्‍ वासनं भवेत्)

 

प्रकाशरूप जो त्याला ओवाळावे कसे बरे?

आत-बाहेर जे पूर्ण कुठे त्याचे विसर्जन?

 

एवमेव परापूजा सर्वावस्थासु सर्वदा ।

एकबुद्ध्या तु देवेशे विधेया ब्रह्मवित्तमै: ॥९॥

(एवम् एव परापूजा सर्वावस्थासु सर्वदा)

 

म्हणूनीच परापूजा सर्वावस्थेत सर्वदा

साधता प्राप्त होईल साधका ब्रह्मरूप ते..!

 

आत्मा त्वं गिरिजा मति: सहचरा: प्राणा: शरीरं गृहम्

पूजा ते विविधोपभोगरचना निद्रा समाधिस्थिति: ।

संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरो

यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥१०॥

 

(संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरः

यद् यत् कर्म करोमि तत् तत् अखिलं शम्भो तवाराधनम्)

 

इति श्रीमद्‍ शंकराचार्य विरचित परापूजा स्तोत्रम्

 

आत्मा तू, गिरिजा मती, सहचरी ते प्राण, काया घर
निद्रा आत्मस्थितीच नी उमटती भोगात पूजा-स्वर
यात्रा तीच प्रदक्षिणा, सुवचने स्तोत्रेच ती रे शिव
जे जे कर्म करीन मी सकल ती आराधना रे तव..!

श्रीमद्‍ शंकराचार्य विरचित परापूजा स्तोत्र संपूर्ण

मराठी रूपांतर : आसावरी काकडे