श्रीमद् शंकराचार्य विरचित परापूजा स्तोत्र-
अखण्डे सच्चिदानन्दे
निर्विकल्पैकरूपिणि ।
स्थितेऽव्दितीयभावेऽस्मिन् कथं पूजा विधीयते ॥१॥
(स्थिते अव्दितीयभावे अस्मिन् कथं
पूजा विधीयते)
सच्चिदानंद जे आहे
एकमेवाव्दीतीय जे
निर्विकल्प ‘असणे’ त्याला कोणता पूजाविधी?
पूर्णस्यावाहनं कुत्र सर्वाधारस्य
चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च
शुद्धस्य आचमनं कुत: ॥२॥
(पूर्णस्य आवाहनं कुत्र
सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यम् अर्घ्यं
च शुद्धस्य आचमनं कुत:)
पूर्णास आवाहन का, सर्वाधारास
आसन?
शुद्ध, निर्मळ त्या अर्घ्य,
आचमन कशास्तव?
निर्मलस्य कुत: स्नानं
वस्त्रं विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य
कुतस्तस्योपवीतकम ॥३॥
(अगोत्रस्य तु अवर्णस्य
कुत: तस्य उपवीतकम्)
निर्मलाला कसे स्नान वस्त्र विश्वात्मका कसे?
गोत्र नाही वर्ण नाही त्यास
यज्ञोपवीत का?
निर्लेपस्य कुतो गन्ध:
पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा
कोऽलंकारो निराकृते: ॥४॥
(निर्विशेषस्य का भूषा कः
अलंकारः निराकृते:)
गुणातीतास पूजाया गंध,
पुष्पे कशास्तव
निराकार जो आहे कोणती त्यास भूषणे
निरन्जनस्य किं धूपैर्दीर्पैर्वा सर्वसाक्षिण: ।
निजानन्दैक तृप्तस्य
नैवेद्यं किं भवेदिह ॥५॥
(निरन्जनस्य किं धूपैर् दीपैर् वा सर्वसाक्षिण: ।
निजानन्दैक तृप्तस्य
नैवेद्यं किं भवेद् इह ॥५॥)
सर्वसाक्षी, निरंजन तो
धूपदीप कशास त्या
निजानंदी तृप्त आहे, त्याला
नैवेद्य काय तो?
विश्वानन्दयितुस्तस्य किं
ताम्बूलं प्रकल्प्यते ।
स्वयम्प्रकाशचिद्रूपो योऽसावर्कादिभासक:
॥६॥
(विश्वानन्द यितुः तस्य किं
ताम्बूलं प्रकल्प्यते ।
स्वयंप्रकाश चिद्रूपः यः
असौ अर्कादिभासकः)
अर्क = सूर्य, सूर्याला
प्रकाश देणारा)
विश्वानंदात जो मग्न कशाला
त्यास तांबुल?
स्वप्रकाशी चित्तरूपी आरती
त्यास काय ती?
प्रदक्षिणा ह्यनन्तस्य ह्यव्दयस्य
कुतो नति: ।
वेदवाक्यैर,वेद्यस्य कुत: स्तोत्रं
विधीयते ॥७॥
(प्रदक्षिणाहि अनन्तस्य हि
अव्दयस्य कुतः नति: ।
वेदवाक्यैर् अवेद्यस्य कुत:
स्तोत्रं विधीयते ॥७॥
नतिः = नमस्कार)
प्रदक्षिणा अनंताला, अव्दैता
वंदणे कसे?
वेदवाक्ये स्वयंप्रज्ञ कोणते स्तोत्र त्यास्तव?
स्वयम्प्रकाशमानस्य कुतो
नीराजनं विभो: ।
अन्तर्बहिश्च पूर्णस्य
कथमुद्धासनं भवेत ॥८॥
(अन्तर्बहिश्च पूर्णस्य
कथम् उद् वासनं भवेत्)
प्रकाशरूप जो त्याला
ओवाळावे कसे बरे?
आत-बाहेर जे पूर्ण कुठे त्याचे विसर्जन?
एवमेव परापूजा सर्वावस्थासु
सर्वदा ।
एकबुद्ध्या तु देवेशे
विधेया ब्रह्मवित्तमै: ॥९॥
(एवम् एव परापूजा
सर्वावस्थासु सर्वदा)
म्हणूनीच परापूजा
सर्वावस्थेत सर्वदा
साधता प्राप्त होईल साधका
ब्रह्मरूप ते..!
आत्मा त्वं गिरिजा मति: सहचरा: प्राणा: शरीरं गृहम्
पूजा ते विविधोपभोगरचना
निद्रा समाधिस्थिति: ।
संचार: पदयो: प्रदक्षिणविधि:
स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं
शम्भो तवाराधनम् ॥१०॥
(संचार: पदयो:
प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरः
यद् यत् कर्म करोमि तत् तत् अखिलं शम्भो तवाराधनम्)
इति श्रीमद् शंकराचार्य विरचित परापूजा स्तोत्रम्
निद्रा आत्मस्थितीच नी उमटती भोगात पूजा-स्वर
यात्रा तीच प्रदक्षिणा, सुवचने स्तोत्रेच ती रे शिव
जे जे कर्म करीन मी सकल ती आराधना रे तव..!
श्रीमद् शंकराचार्य विरचित परापूजा स्तोत्र संपूर्ण
मराठी रूपांतर : आसावरी काकडे